|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.187. अध्यायः 187
Mahabharata - Udyoga Parva - Chapter Topics
अम्बया तपस्तोषितान्महादेवात् जन्मान्तरे पुंस्त्वप्राप्त्या भीष्महननरूपवमुपलभ्याग्नौ प्रवेशः ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text
भीष्म उवाच। 5-187-0x(3923)(38328)
ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम्।
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ॥ 5-187-1(38329)
तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा ।
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ॥ 5-187-2(38330)
वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः ।
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ॥ 5-187-3(38331)
यत्कृते दुःखवसतिमिमां प्राप्तऽस्मि शाश्वतीम् ।
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह ॥ 5-187-4(38332)
नाहत्वा युधि गाङ्गेयं निवर्तिष्ये तपोधनाः ।
एष मे हृदि संकल्पो यदिदं कथितं मया ॥ 5-187-5(38333)
स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया ।
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ॥ 5-187-6(38334)
तां देवो दर्शयामास शूलपाणिरुमापतिः ।
मध्ये तेषां महार्षीणां स्वेन रूपेण तापसीम् ॥ 5-187-7(38335)
छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम् ।
हनिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ॥ 5-187-8(38336)
ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह।
उपपद्येत्कथं देव स्त्रिया युधि जयो मम ॥ 5-187-9(38337)
स्त्रीभावेन च मे गाढं मनः शान्तमुमापते ।
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः ॥ 5-187-10(38338)
यथा स सत्यो भवति तथा कुरु वृषध्वज ।
यथा हन्यां समागम्य भीष्मं शान्तनवं युधि ॥ 5-187-11(38339)
तामुवाच महादेवः कन्यां किल वृषध्वजः ।
न मे वागमृतं प्राह सत्यं भद्रे भविष्यसि ॥ 5-187-12(38340)
हनिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यति ॥
स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती ॥ 5-187-13(38341)
द्रुपदस्य कुले जाता भविष्यसि महारथः।
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः ॥ 5-187-14(38342)
यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति।
भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् ॥ 5-187-15(38343)
एवमुक्त्वा महादेवः कपर्दी वृषभध्वजः।
पश्यतामेव विप्राणां तत्रैवान्तरधीयत ॥ 5-187-16(38344)
ततः सा पश्यतां तेषां महर्षीणामनिन्दिता ।
समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी ॥ 5-187-17(38345)
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् ।
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ॥ 5-187-18(38346)
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् ।
ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् ॥ ॥ 5-187-19(38347)
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि सप्ताशीत्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-187-10 शान्तं शौर्यधर्मरहितम् ॥ 5-187-19 यमुनामभितः यमुनाद्वीपे इत्यर्थः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|